Atharvaveda 10.5

विजयप्राप्तिः।

10.5.1

१-२४ सिन्धुद्वीपः | आपः, चन्द्रमाः | अनुष्टुप्, १-५ त्रिपदा पुरोऽभिकृतिककुम्मतीगर्भा पङ्क्तिः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१४ त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती (११,१४ पथ्यापङ्क्तिः), १५-२१ चतुरवसाना दशपदा त्रैष्टुब्गर्भातिधृतिः, (१९-२० कृतिः, २४ त्रिपदा विराड् गायत्री) (१) इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

10.5.1

१-२४ सिन्धुद्वीपः | आपः, चन्द्रमाः | अनुष्टुप्, १-५ त्रिपदा पुरोऽभिकृतिककुम्मतीगर्भा पङ्क्तिः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१४ त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती (११,१४ पथ्यापङ्क्तिः), १५-२१ चतुरवसाना दशपदा त्रैष्टुब्गर्भातिधृतिः, (१९-२० कृतिः, २४ त्रिपदा विराड् गायत्री) (१) इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि ||

10.5.2

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑य क्षत्रयो॒गैर्वो॑ युनज्मि ||

10.5.3

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑येन्द्रयो॒गैर्वो॑ युनज्मि ||

10.5.4

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑य सोमयो॒गैर्वो॑ युनज्मि ||

10.5.5

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑याप्सुयो॒गैर्वो युनज्मि ||

10.5.6

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ | जि॒ष्णवे॒ योगा॑य॒ विश्वा॑नि मा भू॒तान्युप॑ तिष्ठन्तु यु॒क्ता म॑ आप स्थ ||

10.5.7

(२) अ॒ग्नेर्भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.8

इन्द्र॑स्य भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.9

सोम॑स्य भा॒ग स्थ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.10

वरु॑णस्य भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.11

मि॒त्रावरु॑णयोर्भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.12

य॒मस्य॑ भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.13

पि॒तॄ॒णां भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.14

दे॒वस्य॑ सवि॒तुर्भा॒ग स्थ॑ | अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त | प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ||

10.5.15

(३) यो व॑ आपो॒ऽपां भा॒गो॒३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः | इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि | तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.16

यो व॑ आपो॒ऽपामू॒र्मिर॒प्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः | इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि | तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.17

यो व॑ आ॒पोऽपां व॒त्त्सो॒ऽप्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः | इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि | तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.18

यो व॑ आपो॒ऽपां वृ॑ष॒भो॒ऽ३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ॥ इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि | तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.19

यो व॑ आपो॒ऽपां हि॑रण्यग॒र्भो॒३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः | इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि | तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.20

यो व॑ आपो॒ऽपामश्मा॒ पृश्नि॑र्दि॒व्यो॒३प्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः | इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि | तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.21

यो व॑ आपो॒ऽपाम॒ग्नयो॒प्स्व॑१न्तर्य॑जु॒ष्योऽ देव॒यज॑नः | इ॒दं तानति॑ सृजामि॒ तान् माभ्यव॑निक्षि | तैस्तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ||

10.5.22

(४) यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म | आपो॑ मा॒ तस्मा॒त् सर्व॑स्माद् दुरि॒तात् पा॒न्त्वंह॑सः ||

10.5.23

स॒मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन | अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत् ||

10.5.24

अ॒रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् | प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दु॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु ||

10.5.25

(५) ५-३५ (१-११) कौशिकः | विष्णुक्रमः, मन्त्रोक्ताः | २५-३५ त्र्यवसाना षट्-पदा यथाक्षरं शक्वर्यतिशक्वरी | विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ऽग्निते॑जाः | पृ॒थि॒वीमनु॒ वि क्र॑मे॒ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॒३स्मा॑न् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.26

१॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः | अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ऽहम॒न्तरि॑क्षा॒त् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.27

२॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा द्यौसं॑शितः॒ सूर्य॑तेजाः | दिव॒मनु॒ वि क्र॑मे॒ऽहं दि॒वस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.28

३॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा दिक्सं॑शितो॒ मन॑स्तेजाः | दिशोऽनु॒ वि क्र॑मे॒ऽहं दि॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.29

४॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः | आशा॒ अनु॒ वि क्र॑मे॒ऽहमाशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.30

५॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा ऋक्सं॑शितः॒ साम॑तेजाः | ऋचोऽनु॒ वि क्र॑मे॒ऽहमृ॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.31

६॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा य॒ज्ञसं॑शितो॒ ब्रह्म॑तेजाः | य॒ज्ञमनु॒ वि क्र॑मे॒ऽहं य॒ज्ञात् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.32

७॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः | ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.33

८॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाप्सुसं॑शितो॒ वरु॑णतेजाः | अ॒पोऽनु॒ वि क्र॑मे॒ऽहम॒द्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.34

९॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः | कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.35

१०॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा प्रा॒णसं॑शितः॒ पुरु॑षतेजाः | प्रा॒णमनु॒ वि क्र॑मे॒ऽहं प्रा॒णात् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः | स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ||

10.5.36

११॥ (६) ३६-४१ (१-६) ब्रह्मा | मन्त्रोक्ताः | ३६ मार्त्वी पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः, ३७ विराट् पुरस्ताद्बृहती, ३८ पुर उष्णिक्, ३९, ४० आर्षी गायत्री, ४० विराड् विषमा गायत्री | जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यऽष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः | इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ||

10.5.37

१॥ सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म् | सा मे॒ द्रवि॑णं यच्छतु॒ सा मे॑ ब्राह्मणवर्च॒सम् ||

10.5.38

२॥ दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते | ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ||

10.5.39

३॥ स॒प्त॒ऋ॒षीन॒भ्याव॑र्ते | ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ||

10.5.40

४॥ ब्रह्मा॒भ्याव॑र्ते | तन्मे॒ द्रवि॑णं यच्छतु तन्मे॑ ब्राह्मणवर्च॒सम् ||

10.5.41

५॥ ब्रा॒ह्म॒णाँ अ॒भ्याव॑र्ते | ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ||

10.5.42

६॥ (७) ४२-५० (१-९) विहव्यः | प्राजापत्या अनुष्टुप्, ४४ त्रिपदा गायत्रीगर्भानुष्टुप्, ५० त्रिष्टुप् | यं व॒यं मृ॒गया॑महे॒ तं व॒धै स्तृ॑णवामहै | व्यात्ते॑ परमे॒ष्ठिनो॒ ब्रह्म॒णापी॑पदाम॒ तम् ||

10.5.43

वै॒श्वा॒न॒रस्य॒ दंष्ट्रा॑भ्यां हे॒तिस्तं सम॑धाद॒भि | इ॒यं तं प्सा॒त्वाहु॑तिः स॒मिद् दे॒वी सही॑यसी ||

10.5.44

राज्ञो॒ वरु॑णस्य ब॒न्धोऽसि | सो॒३मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ||

10.5.45

यत् ते॒ अन्नं॑ भुवस्पत आक्षि॒यति॑ पृथि॒वीमनु॑ | तस्य॑ न॒स्त्वं भु॑वस्पते सं॒प्रय॑च्छ प्रजापते ||

10.5.46

अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि | पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||

10.5.47

सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा | वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् स॒ह ऋषि॑भिः ||

10.5.48

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद् वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः | म॒न्योर्मन॑सः शर॒व्या॒३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ||

10.5.49

परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न् परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि | परा॒र्चिषा॒ मूर॑देवां छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ||

10.5.50

अ॒पाम॑स्मै॒ वज्रं॒ प्र ह॑रामि॒ चतु॑र्भृष्टिं शीर्ष॒भिद्या॑य वि॒द्वान् | सो अ॒स्याङ्गा॑नि॒ प्र शृ॑णातु॒ सर्वा॒ तन्मे॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ||