10.4.1
१-२६ गरुत्मान् | तक्षकः | अनुष्टुप्, १ पथ्यापङ्क्तिः, २ त्रिपदा यवमध्या गायत्री, ३-४ पथ्याबृहती, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिग्गायत्री, १६ त्रिपदा प्रतिष्ठागायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ त्र्यवसाना षट्-पदा बृहतीगर्भा ककुम्मती भुरिक् त्रिष्टुप् | इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत् | अही॑नामप॒मा रथ॑ स्था॒णुमा॑र॒दथा॑र्षत् ||