10.6.1
१-३५ बृहस्पतिः | फालमणिः, वनस्पतिः, ३ आपः | अनुष्टुप्, १,४,२१ गायत्री, ५ षट्-पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-१० त्र्यवसाना अष्टपदाऽष्टिः (१० नवपदा धृतिः), ११, २०, २३-२७ पथ्यापङ्क्तिः १२-१७ त्र्यवसाना षट्-पदा शक्वरी, ३१ त्र्यवसाना षट्-पदा जगती, ३५ पञ्चपदा त्र्यनुष्टुब्गर्भा जगती | अ॒रा॒ती॒योर्भ्रातृ॑व्यस्य दु॒र्हार्दो॑ द्विष॒तः शिरः॑ | अपि॑ वृश्चा॒म्योज॑सा ||