10.3.1
१-२५ अथर्वा | वरणमणिः, वनस्पतिः चन्द्रमाः | अनुष्टुप्, २-३, ६ भुरिक् त्रिष्टुप्, ८, १३-१४ पथ्यापङ्क्तिः, ११, १६ भुरिक्, १५, १७-२५ षट्-पदा जगती | अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑ | तेना र॑भस्व॒ त्वं शत्रू॒न् प्र मृ॑णीहि दुरस्य॒तः ||
सपत्नत्क्षयणो वरणमणिः।
10.3.1
१-२५ अथर्वा | वरणमणिः, वनस्पतिः चन्द्रमाः | अनुष्टुप्, २-३, ६ भुरिक् त्रिष्टुप्, ८, १३-१४ पथ्यापङ्क्तिः, ११, १६ भुरिक्, १५, १७-२५ षट्-पदा जगती | अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑ | तेना र॑भस्व॒ त्वं शत्रू॒न् प्र मृ॑णीहि दुरस्य॒तः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
10.3.1
१-२५ अथर्वा | वरणमणिः, वनस्पतिः चन्द्रमाः | अनुष्टुप्, २-३, ६ भुरिक् त्रिष्टुप्, ८, १३-१४ पथ्यापङ्क्तिः, ११, १६ भुरिक्, १५, १७-२५ षट्-पदा जगती | अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑ | तेना र॑भस्व॒ त्वं शत्रू॒न् प्र मृ॑णीहि दुरस्य॒तः ||
10.3.2
प्रैणा॑न्छृणीहि॒ प्र मृ॒णा र॑भस्व म॒णिस्ते॑ अस्तु पुरए॒ता पु॒रस्ता॑त् | अवा॑रयन्त वर॒णेन॑ दे॒वा अ॑भ्याचा॒रमसु॑राणां॒ श्वःश्वः॑ ||
10.3.3
अ॒यं म॒णिर्व॑र॒णो वि॒श्वभे॑षजः सहस्रा॒क्षो हरि॑तो हिर॒ण्ययः॑ | स ते॒ शत्रू॒नध॑रान् पादयाति॒ पूर्व॒स्तान् द॑भ्नुहि॒ ये त्वा॑ द्वि॒षन्ति॑ ||
10.3.4
अ॒यं ते॑ कृ॒त्यां वित॑तां॒ पौरु॑षेयाद॒यं भ॒यात् | अ॒यं त्वा॒ सर्व॑स्मात् पा॒पाद् व॑र॒णो वा॑रयिष्यते ||
10.3.5
व॒र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ | यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ||
10.3.6
स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम् | प॒रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ||
10.3.7
अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात् | मृ॒त्योरोजी॑यसो व॒धाद् व॑र॒णो वा॑रयिष्यते ||
10.3.8
यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे स्वा यदेन॑श्चकृ॒मा व॒यम् | ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ||
10.3.9
व॒र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः | अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ||
10.3.10
अरि॑ष्टोऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः | तं मा॒यं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ||
10.3.11
अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑ | स मे॒ शत्रू॒न् वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान् ||
10.3.12
इ॒मं बि॑भर्मि वर॒णमायु॑ष्मान्छ॒तशा॑रदः | स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत् ||
10.3.13
यथा॒ वातो॒ वन॒स्पती॑न् वृ॒क्षान् भ॒नक्त्योज॑सा | ए॒वा स॒पत्ना॑न् मे भङ्ग्धि॒ पूर्वा॑न् जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ||
10.3.14
यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान् प्सा॒तो वन॒स्पती॑न् | ए॒वा स॒पत्ना॑न् मे प्साहि॒ पूर्वान् जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ||
10.3.15
यथा॒ वाते॑न॒ प्रक्षी॑णा वृ॒क्षाः शेरे॒ न्यऽर्पिताः | ए॒वा स॒पत्नां॒स्त्वं मम॒ प्र क्षि॑णीहि॒ न्यऽर्पय॒ पूर्वा॑न्जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ||
10.3.16
तांस्त्वं प्र च्छि॑न्द्धि वरण पु॒रा दि॒ष्टात् पु॒रायु॑षः | य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ||
10.3.17
यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न् तेज॒ आहि॑तम् | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.18
यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.19
यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन् जा॒तवे॑दसि | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.20
यथा॒ यशः॑ क॒न्याऽयां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑ | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.21
यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑ | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.22
यथा॒ यशो॑ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑ | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.23
यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन् य॒ज्ञ आहि॑तम् | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.24
यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन् प॑र॒मेष्ठिनि॑ | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||
10.3.25
यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम् | ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ||