10.2.1
१-३३ नारायणः | पार्ष्णिसूक्तम्, पुरुषः, ब्रह्मप्रकाशनम् | अनुष्टुप्, १-४,७-८ त्रिष्टुप्, ६, ११ जगती, २८ भुरिग्बृहती | केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ | केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ||