10.1.1
१-३२ प्रत्यङ्गिरसः | कृत्यादूषणम् | अनुष्टुप्, १ महाबृहती, २ विराण्नाम गायत्री, ९ पथ्यापङ्क्तिः, १२ पङ्क्तिः, १३ उरोबृहती, १५ चतुष्पदा विराड्-जगती, १७, २०, २४ प्रस्तारपङ्क्तिः (२० विराट्), १६, १८ त्रिष्टुप्, १९ चतुष्पदा जगती, २२ एकावसाना द्विपदार्ची उष्णिक्, २३ त्रिपदा भुरिग्विषमा गायत्री,२८ त्रिपदा गायत्री २९ मध्ये ज्योतिष्मती जगती, ३२ द्व्यनुष्टुब्गर्भा पञ्चपदातिजगती | यां क॒ल्पय॑न्ति वह॒तौ व॒धूमि॑व वि॒श्वरू॑पां॒ हस्त॑कृतां चिकि॒त्सवः॑ | सारादे॒त्वप॑ नुदाम एनाम् ||