1.9.1
१-४ अथर्वा | १ वसवः, इन्द्रः, पूषा, वरुणः, मित्रः, अग्निः, आदित्याः, विश्वेदेवाः, २ देवाः, सूर्यः, अग्निः, हिरण्यं, ३-४ अग्निः (जातवेदाः) | त्रिष्टुप् | अ॒स्मिन् वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः | इ॒ममा॑दि॒त्या उ॒त॒ विश्वे॑ च दे॒वा उत्त॑रस्मि॒न् ज्योति॑षि धारयन्तु ||