Atharvaveda 1.10

पाप -विमोचनम्।

1.10.1

१-४ अथर्वा | १ असुरः, २-४ वरुणः | त्रिष्टुप्, ३ ककुम्मती अनुष्टुप्, ४ अनुष्टुप् | अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑ | तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

1.10.1

१-४ अथर्वा | १ असुरः, २-४ वरुणः | त्रिष्टुप्, ३ ककुम्मती अनुष्टुप्, ४ अनुष्टुप् | अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑ | तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ||

1.10.2

नम॑स्ते राजन् वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॒ऽग्र निचि॒केषि॑ द्रु॒ग्धम् | स॒हस्र॑म॒न्यान् प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ||

1.10.3

यदु॒वक्थानृ॑तं जि॒ह्वया॑ वृजि॒नं ब॒हु | राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम् ||

1.10.4

मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑ | स॒जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ||