1.8.1
१-४ चातनः | १-२ बृहस्पतिः, अग्नीषोमौ च, ३-४ अग्निः (जातवेदाः) | १-३ अनुष्टुप्, ४ बार्हतगर्भा त्रिष्टुप् | इ॒दं ह॒विर्या॑तु॒धाना॑न् न॒दी फेन॑मि॒वा व॑हत् | य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ||
यातुधाननाशनम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
1.8.1
१-४ चातनः | १-२ बृहस्पतिः, अग्नीषोमौ च, ३-४ अग्निः (जातवेदाः) | १-३ अनुष्टुप्, ४ बार्हतगर्भा त्रिष्टुप् | इ॒दं ह॒विर्या॑तु॒धाना॑न् न॒दी फेन॑मि॒वा व॑हत् | य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ||
1.8.2
अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत | बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम् ||
1.8.3
या॒तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च | नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम् ||
1.8.4
यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः | तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्येऽषां शत॒तर्ह॑मग्ने ||