1.19.1
१-४ ब्रह्मा | ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः) | अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः | मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन् | आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय ||
शत्रुनिवारणम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
1.19.1
१-४ ब्रह्मा | ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः) | अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः | मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन् | आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय ||
1.19.2
विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः | दैवी॑र्मनुष्येषवो॒ ममा॒मित्रान् वि वि॑ध्यत ||
1.19.3
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति | रु॒द्रः श॑रव्य ऽ यै॒तान् ममा॒मित्रा॒न् वि वि॑ध्यतु ||
1.19.4
यः स॒पत्नो॒ योऽस॑पत्नो॒ यश्च॑ द्वि॒षन् छपा॑ति नः | दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ||