Atharvaveda 1.18

अलक्ष्मीनाशनम्।

1.18.1

१-४ द्रविणोदाः | विनायकः(२ सविता, वरुणः, मित्रः, अर्यमा, देवाः, ३ सविता) | १ विराडुपरिष्टाद् बृहती, २ निचृज्जगती, ३ विराडास्तार पङ्क्तिस्त्रिष्टुप्, ४ अनुष्टुप् | निर्ल॒क्ष्म्यं ऽ लला॒म्यं॑१ निररा॑तिं सुवामसि | अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

1.18.1

१-४ द्रविणोदाः | विनायकः(२ सविता, वरुणः, मित्रः, अर्यमा, देवाः, ३ सविता) | १ विराडुपरिष्टाद् बृहती, २ निचृज्जगती, ३ विराडास्तार पङ्क्तिस्त्रिष्टुप्, ४ अनुष्टुप् | निर्ल॒क्ष्म्यं ऽ लला॒म्यं॑१ निररा॑तिं सुवामसि | अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ||

1.18.2

निरर॑णिं सवि॒ता सा॑विषक् प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा | निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय ||

1.18.3

यत् त॑ आ॒त्मनि॑ त॒न्वां ऽ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा | सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ||

1.18.4

रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त | वि॒ली॒ढ्यं ऽ लला॒म्यं॑१ ता अ॒स्मन्ना॑शयामसि ||