Atharvaveda 1.20

शत्रुनिवारणम्।

1.20.1

१-४ अथर्वा | १ सोमः, मरुतः, २ मित्रावरुणौ, ३ वरुणः ४ इन्द्रः | अनुष्टुप्, त्रिष्टुप् | अदा॑रसृद् भवतु देव सोमा॒स्मिन् य॒ज्ञे म॑रुतो मृ॒डता॑ नः | मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद् वृजि॒ना द्वेष्या॒ या ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

1.20.1

१-४ अथर्वा | १ सोमः, मरुतः, २ मित्रावरुणौ, ३ वरुणः ४ इन्द्रः | अनुष्टुप्, त्रिष्टुप् | अदा॑रसृद् भवतु देव सोमा॒स्मिन् य॒ज्ञे म॑रुतो मृ॒डता॑ नः | मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद् वृजि॒ना द्वेष्या॒ या ||

1.20.2

यो अ॒द्य सेन्यो॑ व॒धोऽघा॒यूना॑मु॒दीर॑ते | यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ||

1.20.3

इ॒तश्च॒ यद॒मुत॑श्च॒ यद् व॒धं व॑रुण यावय | वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम् ||

1.20.4

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः | न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ||