1.17.1
१-४ ब्रह्मा | योषितः धमन्यश्च | अनुष्टुप्, १ भुरिगनुष्टुप्, ४ त्रिपदार्षी गायत्री | अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः | अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ||
रुधिरस्रावनिवृत्तये धमनीबन्धनम्।
1.17.1
१-४ ब्रह्मा | योषितः धमन्यश्च | अनुष्टुप्, १ भुरिगनुष्टुप्, ४ त्रिपदार्षी गायत्री | अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः | अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
1.17.1
१-४ ब्रह्मा | योषितः धमन्यश्च | अनुष्टुप्, १ भुरिगनुष्टुप्, ४ त्रिपदार्षी गायत्री | अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः | अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ||
1.17.2
तिष्ठा॑वरे॒ तिष्ठ॑ पर उ॒त त्वं ति॑ष्ठ मध्यमे | क॒नि॒ष्ठि॒का च॒ तिष्ठ॑ति॒ तिष्ठा॒दिद्ध॒मनि॑र्म॒ही ||
1.17.3
श॒तस्य॑ ध॒मनी॑नां स॒हस्र॑स्य हि॒राणा॑म् | अस्थु॒रिन्म॑ध्य॒मा इ॒माः सा॒कमन्ता॑ अरंसत ||
1.17.4
परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्यऽक्रमीत् | तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ||