Atharvaveda 1.16

शत्रुबाधनम्।

1.16.1

१-४ चातनः | १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्) | अनुष्टुप्, ४ ककुम्मती अनुष्टुप् | येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ | अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

1.16.1

१-४ चातनः | १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्) | अनुष्टुप्, ४ ककुम्मती अनुष्टुप् | येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ | अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत् ||

1.16.2

सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति | सीसं॑ म॒ इन्द्रः॒ प्राय॑च्छ॒त् तद॒ङ्ग या॑तु॒चात॑नम् ||

1.16.3

इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑ | अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ||

1.16.4

यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम् | तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नोऽसो॒ अवी॑रहा ||