1.11.1
१-६ अथर्वा | पूषा, अर्यमा, वेधाः, दिशः, देवाः | पङ्क्तिः, २ अनुष्टुप्, ३ चतुष्पदोष्णिग्गर्भा ककुम्मत्यनुष्टुप्, ४-६ पथ्यापङ्क्तिः | वष॑ट् ते पूषन्न॒स्मिन्त्सू॑तावर्य॒मा होता॑ कृणोतु वे॒धाः | सिस्र॑तां॒ नार्यृ॒तप्र॑जाता॒ वि पर्वा॑णि जिहतां॒ सूत॒वा उ॑ ||