9.4.1
१-२४ ब्रह्मा | ऋषभः | त्रिष्टुप्, ८ भुरिक्, ६, १०, २४ जगती, ११-१७, १९-२०, २३ अनुष्टुप्, १८ उपरिष्टाद्बृहती, २१ आस्तारपङ्क्तिः | सा॒ह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न् विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त् | भ॒द्रं दा॒त्रे यज॑मानाय॒ शीक्ष॑न् बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ||