9.3.1
१-३१ भृग्वङ्गिराः | शाला | अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ परोष्णिक्, १५ त्र्यवसाना पञ्चपदातिशक्वरी, १७ प्रस्तारपङ्क्तिः, २१ आस्तारपङ्क्तिः २५-३१ त्रिपदा प्राजापत्या बृहती, २६ साम्नी त्रिष्टुप्, २७-३० प्रतिष्ठानाम गायत्री, (२५-३१) एकावसाना त्रिपदा | उ॒प॒मितां॑ प्रति॒मिता॒मथो॑ परि॒मिता॑मु॒त | शाला॑या वि॒श्ववा॑राया न॒द्धानि॒ वि चृ॑तामसि ||