6.92.1
१-३ अथर्वा | इन्द्रः, वाजी | त्रिष्टुप्, १ जगती | वात॑रम्हा भव वाजिन् यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः | यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ||
वाजी।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.92.1
१-३ अथर्वा | इन्द्रः, वाजी | त्रिष्टुप्, १ जगती | वात॑रम्हा भव वाजिन् यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः | यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ||
6.92.2
ज॒वस्ते॑ अर्व॒न् निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त् परी॑त्तः | तेन॒ त्वं वा॑जि॒न् बल॑वा॒न् बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ||
6.92.3
त॒नूष्टे॑ वाजिन् त॒न्वं॑१ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म् | अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीऽव ज्योतिः॒ स्वमा मि॑मीयात् ||