6.91.1
१-३ भृग्वङ्गिराः | यक्ष्मनाशनम्, ३ आपः | अनुष्टुप् | इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः | तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये ||
यक्ष्मनाशनम्।
6.91.1
१-३ भृग्वङ्गिराः | यक्ष्मनाशनम्, ३ आपः | अनुष्टुप् | इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः | तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.91.1
१-३ भृग्वङ्गिराः | यक्ष्मनाशनम्, ३ आपः | अनुष्टुप् | इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः | तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये ||
6.91.2
न्य॑१ग्वातो॑ वाति॒ न्यऽक् तपति॑ सूर्यः॑ | नी॒चीन॑म॒घ्न्या दु॑हे॒ न्यऽग् भवतु ते॒ रपः॑ ||
6.91.3
आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः | आपो॑ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ||