6.40.1
१-३ अथर्वा | १ द्यावापृथिवी, सोमः, सविता, अन्तरिक्षं, सप्तऋषयः, २ सविता इन्द्रः, ३ इन्द्रः | १-२ जगती, ३ अनुष्टुप् | अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नोऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु | अभ॑यं नोऽस्तू॒र्व॑१न्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ||