Atharvaveda 6.39

वर्चस्यम्।

6.39.1

१-३ अथर्वा (वर्चस्कामः) | (बृहस्पतिः), २ इन्द्रः, ३ इन्द्रः, अग्निः, सोमः, | १ जगती, २ त्रिष्टुप्, ३ अनुष्टुप् | यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम् | प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.39.1

१-३ अथर्वा (वर्चस्कामः) | (बृहस्पतिः), २ इन्द्रः, ३ इन्द्रः, अग्निः, सोमः, | १ जगती, २ त्रिष्टुप्, ३ अनुष्टुप् | यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम् | प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ||

6.39.2

अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम | स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ||

6.39.3

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत | य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ||