5.4.1
१-१० भृग्वङ्गिराः | कुष्ठो, यक्ष्मनाशनम् | अनुष्टप्, ५ भुरिक्, ६ गायत्री, १० उष्णिग्गर्भा निचृत् | यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः | कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ||
कुष्ठतक्मनाशनम्।
5.4.1
१-१० भृग्वङ्गिराः | कुष्ठो, यक्ष्मनाशनम् | अनुष्टप्, ५ भुरिक्, ६ गायत्री, १० उष्णिग्गर्भा निचृत् | यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः | कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
5.4.1
१-१० भृग्वङ्गिराः | कुष्ठो, यक्ष्मनाशनम् | अनुष्टप्, ५ भुरिक्, ६ गायत्री, १० उष्णिग्गर्भा निचृत् | यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः | कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ||
5.4.2
सु॒प॒र्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑ | धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम् ||
5.4.3
अ॒श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि | तत्रा॒मृत॑स्य चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ||
5.4.4
हि॒र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि | तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ||
5.4.5
हि॒र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑ | नावो॑ हिर॒ण्ययी॑रास॒न् याभिः॒ कुष्ठं॑ नि॒राव॑हन् ||
5.4.6
इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु | तमु॑ मे अग॒दं कृ॑धि ||
5.4.7
दे॒वेभ्यो॒ अधि॑ जा॒तोऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः | स प्रा॒णाय॑ व्या॒नाय॒ च॑क्षुषे मे अ॒स्मै मृ॑ड ||
5.4.8
उद॑ङ् जा॒तो हि॒मव॑तः॒ स प्रा॒च्यां नी॑यसे॒ जन॑म् | तत्र॑ कुष्ठ॑स्य॒ नामा॑न्युत्त॒मानि॒ वि भे॑जिरे ||
5.4.9
उ॒त्त॒मो नाम॑ कुष्ठस्युत्त॒मो नाम॑ ते पि॒ता | यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ||
5.4.10
शी॒र्षा॒म॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒३रपः॑ | कुष्ठ॒स्तत् सर्वं॒ निष्क॑र॒द् दैवं॑ समह॒ वृष्ण्य॑म् ||