5.3.1
१-११ बृहद्दिवोऽथर्वा | १-२ अग्निः, ३-४ देवाः, ५ द्रविणोदाः, ६ देवीः, ७ सोमः, ८,११ इन्द्रः, ९ धाता, विधाता, सविता, आदित्याः. रुद्राः, अश्विनौ, १० आदित्याः, रुद्राः | त्रिष्टुप्, २ भुरिक्, १० विराड्-जगती | ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वंऽपुषेम | मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रस्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ||