4.7.1
१-७ गरुत्मान् | वनस्पतिः | अनुष्टुप्, ४ स्वरीट् | वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ | तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम् ||
विषनाषनम्
4.7.1
१-७ गरुत्मान् | वनस्पतिः | अनुष्टुप्, ४ स्वरीट् | वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ | तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.7.1
१-७ गरुत्मान् | वनस्पतिः | अनुष्टुप्, ४ स्वरीट् | वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ | तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम् ||
4.7.2
अ॒र॒सं प्रा॒च्यंऽवि॒षम॑र॒सं यदु॑दी॒च्यऽम् | अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ||
4.7.3
क॒र॒म्भं कृ॒त्वा ति॒र्यंऽपीबस्पा॒कमु॑दार॒थिम् | क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ||
4.7.4
वि ते॒ मदं॑ मदावति श॒रमि॑व पातयामसि | प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि ||
4.7.5
परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि | तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ||
4.7.6
प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन् दू॒र्शेभि॑र॒जिनै॑रु॒त | प्र॒क्रीर॑सि॒ त्वमो॑ष॒धेऽभ्रि॑खाते॒ न रू॑रुपः ||
4.7.7
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे॑ | वी॒रान्नो॒ अत्र॒ मा द॑भ॒न् तद् व॑ ए॒तत्पु॒रो द॑धे ||