4.6.1
१-८ गरत्मान् | तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम् | अनुष्टुप् | ब्रा॒ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः | स सोमं॑ प्रथ॒मः प॑पौ॒ स चकारार॒सं वि॒षम् ||
विषघ्नम्।
4.6.1
१-८ गरत्मान् | तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम् | अनुष्टुप् | ब्रा॒ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः | स सोमं॑ प्रथ॒मः प॑पौ॒ स चकारार॒सं वि॒षम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.6.1
१-८ गरत्मान् | तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम् | अनुष्टुप् | ब्रा॒ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः | स सोमं॑ प्रथ॒मः प॑पौ॒ स चकारार॒सं वि॒षम् ||
4.6.2
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा यावत् स॒प्त सिन्ध॑वो वितष्ठि॒रे | वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ||
4.6.3
सु॒प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत् | नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ||
4.6.4
यस्त॒ आस्य॒त् पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः | अ॒प॒स्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ||
4.6.5
श॒ल्याद्वि॒षं निर॑वोचं प्राञ्ज॑नादु॒त प॒र्ण॒धेः | अ॒पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचमहं वि॒ष॑म् ||
4.6.6
अ॒र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अ॒र॒सं वि॒षम् | उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ||
4.6.7
ये अपी॑ष॒न् ये अदि॑ह॒न् य आस्य॒न् ये अ॒वासृ॑जन् | सर्वे॒ ते वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृतः ||
4.6.8
वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे | वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ||