4.2.1
१-८ वेनः | आत्मा | त्रिष्टुप्, ६ पुरोऽनुष्टुप्, ७ उपरिष्टाज्यो | तिः | य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः | यो॒३स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
आत्मविद्या।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.2.1
१-८ वेनः | आत्मा | त्रिष्टुप्, ६ पुरोऽनुष्टुप्, ७ उपरिष्टाज्यो | तिः | य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः | यो॒३स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.2
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैको॒ राजा॒ जग॑तो ब॒भूव॑ | यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.3
यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम् | यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.4
यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॑१न्तरि॑क्षम् | यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.5
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः | इ॒माश्च॑ प्र॒दिशो॒ यस्य॒ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.6
आपो॒ अग्रे॒ विश्व॑माव॒न् गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः | यासु॑ दे॒वीष्वधि॑ दे॒व आ॑सी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.7
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् | स दा॑धार पृथि॒वीमु॒त द्यां कस्मै दे॒वाय॑ ह॒विषा॑ विधेम ||
4.2.8
आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन् | तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ||