4.1.1
ब्रह्मविद्या | ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आवः | स बु॒ध्न्याऽउप॒माअ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑ ||
१-७ वेनः। बृहस्पतिः, आदित्यः। त्रिष्टुप् २, ५ पुरोऽनुष्टुप्।
4.1.1
ब्रह्मविद्या | ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आवः | स बु॒ध्न्याऽउप॒माअ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑ ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.1.1
ब्रह्मविद्या | ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आवः | स बु॒ध्न्याऽउप॒माअ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑ ||
4.1.2
इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः | तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ||
4.1.3
प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति | ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चै स्व॒धा अ॒भि प्र त॑स्थौ ||
4.1.4
स हि दि॒वः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत् | म॒हान् म॒ही अस्क॑भाय॒द् वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रज॑ ||
4.1.5
स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट् | अह॒र्यच्छुक्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्रा॑ ||
4.1.6
नू॒नं तद॑स्य का॒व्यो॑ हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑ | ए॒ष ज॑ज्ञे ब॒हुभि॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ||
4.1.7
योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गछा॑त् | त्वं विश्वे॑षां जनि॒ता यथास॑ क॒विर्दे॒वो न दभा॑यत् स्व॒धावा॑न् ||