3.27.1
१-६ अथर्वा | दिशः, रुद्रः, १ अग्निः असितः, आदित्याः, २ इन्द्रः, तिरश्चिराजी, पितरः, ३ वरुणः पृदाकुः, अन्नं, ४ सोमः, स्वजः, अशनिः, ५ विष्णुः, कल्माषग्रीवो वीरुधः, ६ बृहस्पतिः, श्वित्रं, वर्षम् | १-६ पञ्चपदा ककुम्मतीगर्भाऽष्टिः, (२ अत्यष्टिः, ५ भुरिक्) | प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्याल इष॑वः | तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु | यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ||