Atharvaveda 3.26

दिक्षु आत्मरक्षा।

3.26.1

१-६ अथर्वा | रुद्रः, दिशः, १ साग्नयो हेतवः, २ सकामा आविष्यवः, ३ वैराजः, ४ सवाताः, प्राविध्यन्तः, ५ सौषधिका निलिम्पा, ६ बृहस्पतियुता अवस्वन्तः | त्रिष्टुप्, २, ५, ६ जगती, ३, ४ भुरिक्, १-६ पञ्चपदा विपरीतपादलक्ष्मा | ये॒३स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरिष॑वः | ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

3.26.1

१-६ अथर्वा | रुद्रः, दिशः, १ साग्नयो हेतवः, २ सकामा आविष्यवः, ३ वैराजः, ४ सवाताः, प्राविध्यन्तः, ५ सौषधिका निलिम्पा, ६ बृहस्पतियुता अवस्वन्तः | त्रिष्टुप्, २, ५, ६ जगती, ३, ४ भुरिक्, १-६ पञ्चपदा विपरीतपादलक्ष्मा | ये॒३स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरिष॑वः | ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||

3.26.2

ये॒३स्यां स्थ दक्षि॑णायां दि॒श्यऽ वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः | ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||

3.26.3

ये॒३स्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः | ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॒ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||

3.26.4

ये॒३स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः | ते नो॑ मृडत॒ ते नोऽधि ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||

3.26.5

ये॒३ऽस्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः | ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||

3.26.6

ये॒३स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः | ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ||