3.24.1
१-७ भृगुः | वनस्पतिः. प्रजापतिः | अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः | पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ | अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ||
समृद्घि-प्राप्तिः।
3.24.1
१-७ भृगुः | वनस्पतिः. प्रजापतिः | अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः | पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ | अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.24.1
१-७ भृगुः | वनस्पतिः. प्रजापतिः | अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः | पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ | अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ||
3.24.2
वेदा॒हं पय॑स्वन्तं च॒का॑र धा॒न्यं ऽ ब॒हु | सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे ||
3.24.3
इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑ | वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं समा॑वहान् ||
3.24.4
उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम् | ए॒वास्माके॒दं धा॒न्यं ऽ स॒हस्र॑धार॒मक्षि॑तम् ||
3.24.5
शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र | कृ॒तस्य॑ का॒र्यऽस्य चे॒ह स्फा॒तिं स॒माव॑ह ||
3.24.6
ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः | तासां॒ या स्फा॑ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ||
3.24.7
उ॒पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते | तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ||