3.23.1
१-६ ब्रह्मा | चन्द्रमा, योनिः, द्यावापृथिवी | अनुष्टुप्, ५ उपरिष्टाद् भुरिग्बृहती, ६ स्कंधोग्रीवी बृहती | येन॑ वे॒हद् ब॒भूवि॑थ ना॒शया॑म॒सि तत् त्वत् | इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ||
वीर-प्रसूतिः।
3.23.1
१-६ ब्रह्मा | चन्द्रमा, योनिः, द्यावापृथिवी | अनुष्टुप्, ५ उपरिष्टाद् भुरिग्बृहती, ६ स्कंधोग्रीवी बृहती | येन॑ वे॒हद् ब॒भूवि॑थ ना॒शया॑म॒सि तत् त्वत् | इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.23.1
१-६ ब्रह्मा | चन्द्रमा, योनिः, द्यावापृथिवी | अनुष्टुप्, ५ उपरिष्टाद् भुरिग्बृहती, ६ स्कंधोग्रीवी बृहती | येन॑ वे॒हद् ब॒भूवि॑थ ना॒शया॑म॒सि तत् त्वत् | इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ||
3.23.2
आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न् बाण॑ इवेषु॒धिम् | आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ||
3.23.3
पुमां॑सं पु॒त्रं ज॑नय॒ तं पुमा॒ननु॑ जायताम् | भवा॑सि पु॒त्राणां॑ मा॒ता जा॒तानां॑ ज॒नया॑श्च॒ यान् ||
3.23.4
यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च | तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ||
3.23.5
कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते | वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ||
3.23.6
यासां॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ | तास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ||