2.36.1
१-८ पतिवेदनः | १अग्निः, २ सोमः, अर्यमा, धाता, ३ अग्नीषोमौ, ४ इन्द्रः, ५ सूर्यः, ६ धनपतिः, ७ भगः, ८ औषधिः | त्रिष्टुप्, १भुरिक्, २, ५-७ अनुष्टुप्, ८ निचृत्पुरउष्णिक् | आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न | जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ||