2.35.1
१-५ अङ्गिराः | विश्वकर्मा | त्रिष्टुप्, १ बृहतीगर्भा, ४-५ भुरिक् | ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒धुर्यान॒ग्नयो॑ अ॒न्वत॑प्यन्त॒ धिष्ण्याः॑ | या तेषा॑मव॒या दुरि॑ष्टिः॒ स्विऽष्टिं न॒स्तां कृ॑णवद् वि॒श्वक॑र्मा ||
विश्वकर्मा।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
2.35.1
१-५ अङ्गिराः | विश्वकर्मा | त्रिष्टुप्, १ बृहतीगर्भा, ४-५ भुरिक् | ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒धुर्यान॒ग्नयो॑ अ॒न्वत॑प्यन्त॒ धिष्ण्याः॑ | या तेषा॑मव॒या दुरि॑ष्टिः॒ स्विऽष्टिं न॒स्तां कृ॑णवद् वि॒श्वक॑र्मा ||
2.35.2
य॒ज्ञप॑ति॒मृष॑यः॒ एन॑साहु॒र्निर्भ॑क्तं प्र॒जा अ॑नुत॒प्यमा॑नम् | म॒थ॒व्या॒ऽन्त्स्तो॒कानप॒ यान् र॒राध॒ सं न॒ष्टेभिः॑ सृजतु वि॒श्वक॑र्मा ||
2.35.3
अ॒दा॒न्यान्त्सो॑म॒पान् मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑ | यदेन॑श्चकृ॒वान् ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न् प्र मु॑ञ्चा स्व॒स्तये॑ ||
2.35.4
घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्य॒श्चक्षु॒र्यदे॑षां॒ मन॑सश्च स॒त्यम् | बृह॒स्पत॑ये महिष द्यु॒मन्नमो॒ विश्व॑कर्म॒न् नम॑स्ते पा॒ह्य॑१स्मा॑न् ||
2.35.5
य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि | इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ||