2.15.1
१-६ ब्रह्मा | प्राणः, आयुः | त्रिपाद्गायत्री | यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
अभय प्राप्तिः।
2.15.1
१-६ ब्रह्मा | प्राणः, आयुः | त्रिपाद्गायत्री | यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
2.15.1
१-६ ब्रह्मा | प्राणः, आयुः | त्रिपाद्गायत्री | यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
2.15.2
यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
2.15.3
यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
2.15.4
यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
2.15.5
यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||
2.15.6
यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः | ए॒वा मे॑ प्राण॒ मा बि॑भेः ||