Atharvaveda 2.14

वस्युनाशनम्।

2.14.1

१-६ चातनः | शालाग्निदैवत्यम् | अनुष्टुप्, २ भुरिक्, ४ उपरिष्ठाद्विराड् बृहती | निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम् | सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

2.14.1

१-६ चातनः | शालाग्निदैवत्यम् | अनुष्टुप्, २ भुरिक्, ४ उपरिष्ठाद्विराड् बृहती | निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम् | सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑ ||

2.14.2

निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒सात् | निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ||

2.14.3

अ॒सौ यो अ॑ध॒राद् गृ॒हस्तत्र॑ सन्त्वरा॒य्यः | तत्र॑ से॒दिर्न्युऽच्यतु॒ सर्वा॑श्च यातुधा॒न्यः ||

2.14.4

भू॒त॒प॒तिर्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑ | गृ॒हस्य॑ बु॒ध्न आसी॑ना॒स्ता इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ||

2.14.5

यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः | यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ||

2.14.6

परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन् | अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ||