19.40.1
१-४ ब्रह्माः बृहस्पतिः, विश्वे देवाश्च | १ पराऽनुष्टुप् त्रिष्टुप्, २ पुरः ककुम्मत्युपरिष्टाद्बृहती, ३ बृहतीगर्भा, ४ त्रिपदाऽर्षी गायत्री | यन्मे॑ छि॒द्रं मन॑सो॒ यच्च॑ वा॒चः सर॑स्वती मन्यु॒मन्तं॑ ज॒गाम॑ | विश्वै॒स्तद् दे॒वैः स॒ह सं॑विदा॒नः सं द॑धातु॒ बृह॒स्पतिः॑ ||