Atharvaveda 19.39

कुष्ठनाशनम्।

19.39.1

१-१० भृग्वङ्गिराः | कुष्ठः | अनुष्टुप्, २, ३ त्र्यवसाना पथ्यापङ्क्तिः, ४ षट्-पदा जगती, ५ सप्तपदा शक्वरी, ६-८ अष्टिः (५-८ चतुरवसाना) | ऐतु॑ दे॒वस्त्राय॑माणः॒ कुष्ठो॑ हि॒मव॑त॒स्परि॑ | त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.39.1

१-१० भृग्वङ्गिराः | कुष्ठः | अनुष्टुप्, २, ३ त्र्यवसाना पथ्यापङ्क्तिः, ४ षट्-पदा जगती, ५ सप्तपदा शक्वरी, ६-८ अष्टिः (५-८ चतुरवसाना) | ऐतु॑ दे॒वस्त्राय॑माणः॒ कुष्ठो॑ हि॒मव॑त॒स्परि॑ | त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ||

19.39.2

त्रीणि॑ ते कुष्ठ॒ नामा॑नि नद्यमा॒रो न॒द्यारि॑षः | नद्या॒यं पुरु॑षो रिषत् | यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ||

19.39.3

जी॒व॒ला नाम॑ ते मा॒ता जी॑व॒न्तो नाम॑ ते पि॒ता | नद्या॒यं पुरु॑षो रिषत् | यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ||

19.39.4

उ॒त्त॒मो अ॒स्योष॑धीनामन॒ड्वान् जग॑तामिव व्या॒घ्रः श्वप॑दामिव | नद्या॒यं पुरु॑षो रिषत् | यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ||

19.39.5

त्रिः शाम्बु॑भ्यो॒ अङ्गि॑रेभ्य॒स्त्रिरा॑दि॒त्येभ्य॒स्परि॑ | त्रिर्जा॒तो वि॒श्वदे॑वेभ्यः | स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति | त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ||

19.39.6

अ॒श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि | तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत | स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति | त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ||

19.39.7

हि॒र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि | तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत | स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति | त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ||

19.39.8

यत्र॒ नाव॑प्र॒भ्रंश॑नं॒ यत्र॑ हि॒मव॑तः॒ शिरः॑ | तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत | स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति | त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ||

19.39.9

यं त्वा॒ वेद॒ पूर्व॒ इक्ष्वा॑को॒ यं वा॑ त्वा कुष्ठ का॒म्यः | यं वा॒ वसो॑ यमात्स्य॒स्तेनासि॑ वि॒श्वभे॑षजः ||

19.39.10

शी॒र्ष॒लो॒कं तृ॒तीय॑कं सद॒न्दिर्यश्च॑ हाय॒नः | त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुव ||