19.27.1
१-१५ भृग्वङ्गिराः | त्रिवृत्, चन्द्रमाश्च | अनुष्टुप्, ३, ९ त्रिष्टुप्, १० जगती, ११ आर्ची उष्णिक्, १२ आर्च्यनुष्टुप्, १३ साम्नी त्रिष्टुप् (११-१३ एकावसानाः) | गोभि॑ष्ट्वा पात्वृष॒भो वृषा॑ त्वा पातु वा॒जिभिः॑ | वा॒युष्त्वा॒ ब्रह्म॑णा पा॒त्विन्द्र॑स्त्वा पात्विन्द्रि॒यैः ||