Atharvaveda 19.26

हिरण्यधारणम्।

19.26.1

१-४ अथर्वा | अग्निः, हिरण्यं च | त्रिष्टुप्, ३ अनुष्टुप्, ४ पथ्यापङ्क्तिः | अ॒ग्नेः प्रजा॑तं॒ परि॒ यद्धिर॑ण्यम॒मृतं॑ द॒ध्रे अधि॒ मर्त्ये॑षु | य ए॑न॒द् वेद॒ स इदे॑नमर्हति ज॒रामृ॑त्युर्भवति॒ यो बि॒भर्ति॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.26.1

१-४ अथर्वा | अग्निः, हिरण्यं च | त्रिष्टुप्, ३ अनुष्टुप्, ४ पथ्यापङ्क्तिः | अ॒ग्नेः प्रजा॑तं॒ परि॒ यद्धिर॑ण्यम॒मृतं॑ द॒ध्रे अधि॒ मर्त्ये॑षु | य ए॑न॒द् वेद॒ स इदे॑नमर्हति ज॒रामृ॑त्युर्भवति॒ यो बि॒भर्ति॑ ||

19.26.2

यद्धिर॑ण्यं॒ सूर्ये॑ण सु॒वर्णं प्र॒जाव॑न्तो॒ मन॑वः॒ पूर्व॑ ईषि॒रे | तत् त्वा॑ च॒न्द्रं वर्च॑सा॒ सं सृ॑ज॒त्यायु॑ष्मान् भवति॒ यो बि॒भर्ति॑ ||

19.26.3

आयु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से च॒ बला॑य च | यथा॑ हिरण्य॒तेज॑सा वि॒भासा॑सि॒ जनाँ॒ अनु॑ ||

19.26.4

यद् वेद॒ राजा॒ वरु॑णो॒ वेद॑ दे॒वो बृह॒स्पतिः॑ | इन्द्रो॒ यद् वृ॑त्र॒हा वेद॒ तत् त॑ आयु॒ष्यं भुव॒त् तत् ते॑ वर्च॒स्यं भुवत् ||