Atharvaveda 15.3

१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ पिपीलिकमध्या गायत्री; २ साम्नी उष्णिक्; ३ याजुषी जगती;

15.3.1

४ द्विपदाऽर्च्युष्णिक्; ५ आर्ची बृहती; ६ आसुर्यनुष्टुप्; ७ साम्नी गायत्री; ८ आसुरी पङ्क्तिः; ९ आसुरी जगती; १० प्राजापत्या त्रिष्टुप्; ११ विराड् गायत्री | स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

15.3.1

४ द्विपदाऽर्च्युष्णिक्; ५ आर्ची बृहती; ६ आसुर्यनुष्टुप्; ७ साम्नी गायत्री; ८ आसुरी पङ्क्तिः; ९ आसुरी जगती; १० प्राजापत्या त्रिष्टुप्; ११ विराड् गायत्री | स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ||

15.3.2

सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ||

15.3.3

तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन् ||

15.3.4

तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ||

15.3.5

बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॒३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये ||

15.3.6

ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ||

15.3.7

वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम् ||

15.3.8

सामा॑सा॒द उ॑द्गी॒थोऽपश्र॒यः ||

15.3.9

तामा॑स॒न्दीं व्रात्य॒ आरो॑हत् ||

15.3.10

तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ||

15.3.11

विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ||