Atharvaveda 15.2

Sukta 2

15.2.1

१-३२ अथर्वा | अध्यात्मं, व्रात्यः | १, ६, ९, १७, २५, ३० साम्न्यनुष्टुप्; २, १८, २६ साम्नी त्रिष्टुप्; ३ द्विपदाऽर्षी पङ्क्तिः ४, २०, २८ द्विपदा ब्राह्मी गायत्री; ५, १३ २१, २९, द्विपदाऽर्ची गायत्री; १४ साम्नी पङ्क्तिः २२ आसुरी गायत्री; ७, १५, २३, ३१ पदपङ्क्तिः; ८, १६, २४, ३२ त्रिपदा प्राजापत्या त्रिष्टुप्; १० एकपदा उष्णिक्; ११ द्विपदाऽर्षी भुरिक् त्रिष्टुप् १२ आर्षी पराऽनुष्टुप्; १९ द्विपदा विराडार्षी पङ्क्तिः; २७ निचृदार्षी पङ्क्तिः | स उद॑तिष्ठ॒त् स प्राचीं॒ दिश॒मनु॒ व्यऽचलत् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

15.2.1

१-३२ अथर्वा | अध्यात्मं, व्रात्यः | १, ६, ९, १७, २५, ३० साम्न्यनुष्टुप्; २, १८, २६ साम्नी त्रिष्टुप्; ३ द्विपदाऽर्षी पङ्क्तिः ४, २०, २८ द्विपदा ब्राह्मी गायत्री; ५, १३ २१, २९, द्विपदाऽर्ची गायत्री; १४ साम्नी पङ्क्तिः २२ आसुरी गायत्री; ७, १५, २३, ३१ पदपङ्क्तिः; ८, १६, २४, ३२ त्रिपदा प्राजापत्या त्रिष्टुप्; १० एकपदा उष्णिक्; ११ द्विपदाऽर्षी भुरिक् त्रिष्टुप् १२ आर्षी पराऽनुष्टुप्; १९ द्विपदा विराडार्षी पङ्क्तिः; २७ निचृदार्षी पङ्क्तिः | स उद॑तिष्ठ॒त् स प्राचीं॒ दिश॒मनु॒ व्यऽचलत् ||

15.2.2

तं बृ॒हच्च॑ रथंत॒रं चा॑दि॒त्याश्च॒ विश्वे॑ च दे॒वा अ॑नु॒व्य॒ऽ चलन् ||

15.2.3

बृ॒ह॒ते च॒ वै स र॑थंत॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ||

15.2.4

बृ॒ह॒तश्च॒ वै स र॑थंत॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रियं धाम॑ भवति॒ तस्य॒ प्राच्यां॑ दि॒शि ||

15.2.5

श्र॒द्धा पुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ||

15.2.6

भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम् ||

15.2.7

मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः ||

15.2.8

की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ||

15.2.9

स उद॑तिष्ठ॒त् स दक्षि॑णां॒ दिश॒मनु॒ व्यऽचलत् ||

15.2.10

तं य॑ज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यऽचलन् ||

15.2.11

य॒ज्ञा॒य॒ज्ञिया॑य च॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ||

15.2.12

य॒ज्ञा॒य॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ दक्षि॑णायां दि॒शि ||

15.2.13

उ॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ||

15.2.14

अ॒मा॒वा॒स्याऽ च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम् ||

15.2.15

मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः ||

15.2.17

की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥१६ स उद॑तिष्ठ॒त् स प्र॒तीचीं॒ दिश॒मनु॒ व्यऽचलत् ||

15.2.18

तं वै॑रू॒पं च॑ वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्यऽचलन् ||

15.2.19

वै॒रू॒पाय॑ च॒ वै स वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ||

15.2.20

वै॒रू॒पस्य॑ च॒ वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑ प्र॒तीच्यां॑ दि॒शी ||

15.2.21

इ॒रा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ||

15.2.22

अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम् ||

15.2.23

मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः ||

15.2.24

की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ||

15.2.25

स उद॑तिष्ठ॒त् स उदी॑चीं॒ दिश॒मनु॒ व्यऽ चलत् ||

15.2.26

तं श्यै॒तं च॑ नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यऽचलन् ||

15.2.27

श्यै॒ताय॑ च॒ वै स नौ॑ध॒साय॑ च सप्त॒र्षिभ्य॑श्च॒ सोमा॑य च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॑ व्रात्य॑मुप॒वद॑ति ||

15.2.28

श्यै॒तस्य॑ च॒ वै स नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि ||

15.2.29

वि॒द्युत् पुं॑श्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ||

15.2.30

श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दौ मनो॑ विप॒थम् ||

15.2.31

मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः ||

15.2.32

की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ||