14.2.1
१-७५ सूर्या सावित्री |
आत्मा, १० यक्षमनाशी, ११ दम्पत्यो परिपन्थिनाशनी, ३६ देवाः |
अनुष्टुप्,
५-६, १२, ३१, ३७, ३९-४० जगती (३७,३९ भुरिक् त्रिष्टुप्), ९ त्र्यवसाना षट्-पदा विराडत्यष्टिः,
१३-१४, १७-१९, ३४, ३६, ३८, ४१-४२, ४९, ६१, ७०,७४-७५ त्रिष्टुप्, १५, ५१ भुरिक्, २०पुरस्ताद्बृहती,
१३, २४-२५, ३२-३३ पुरोबृहती (२६ त्रिपदाविराण्नाम गायत्री), ३३ विराडास्तारपङ्क्तिः,
३५ पुरोबृहती त्रिष्टुप्, ४३ त्रिष्टुब्गर्भा पङ्क्तिः ४४ प्रस्तारपङ्क्तिः, ४७ पथ्याबृहती, ४८ सतः पङ्क्तिः,
५० उपरिष्टाद्बृहती निचृत्, ५२ विराट् पुर उष्णिक्, ५९-६०, ६२ पथ्यापङ्क्तिः, ६८ पुर उष्णिक्,
६९ त्र्यवसाना षट् पदाऽतिशक्वरी,७१ बृहती |
तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह |
स नः॒ पति॑भ्यो जा॒यां दा अग्ने॑ प्र॒जया॑ स॒ह ||
14.2.2
पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा |
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ||
14.2.3
सोम॑स्य जा॒या प्र॑थ॒मं ग॑न्ध॒र्वस्तेऽप॑रः॒ पतिः॑ |
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ||
14.2.4
सोमो॑ ददद् गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ |
र॒यिं च पु॒त्रांस्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ||
14.2.5
आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्यश्विना हृ॒त्सु कामा॑ अरंसत |
अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्यां॑ अशीमहि ||
14.2.6
सा म॑न्दसा॒ना मन॑सा शि॒वेन॑ र॒यिं धे॑हि॒ सर्व॑वीरं वच॒स्यऽम् |
सु॒गं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं पथि॑ष्ठा॒मप॑ दुर्म॒तिं ह॑तम् ||
14.2.7
या ओष॑धयो॒ या न॒द्यो॒३ यानि॒ क्षेत्रा॑णि॒ या वना॑ |
तास्त्वा॑ वधु प्र॒जाव॑तीं॒ पत्ये॑ रक्षन्तु र॒क्षसः॑ ||
14.2.8
एमं पन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम् |
यस्मि॑न् वी॒रो न रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ||
14.2.9
इ॒दं सु मे॑ नरः शृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः |
ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः |
स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै भ॑वन्तु॒ मा हिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ||
14.2.10
ये व॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जनाँ॒ अनु॑ |
पुन॒स्तान् य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ||
14.2.11
मा वि॑दन् परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दंपती |
सु॒गेन॑ दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ||
14.2.12
सं का॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण |
प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यदस्ति॑ स्यो॒नं पति॑भ्यः सवि॒ता तत् कृ॑णोतु ||
14.2.13
शि॒वा नारी॒यमस्त॒माग॑न्नि॒मं धा॒ता लो॒कम॒स्यै दि॑देश |
ताम॑र्य॒मा भगो॑ अ॒श्विनो॒भा प्र॒जाप॑तिः प्र॒जया॑ वर्धयन्तु ||
14.2.14
आ॒त्म॒न्वत्यु॒र्वरा॒ नारी॒यमाग॒न् तस्यां॑ नरो वपत॒ बीज॑मस्याम् |
सा वः॑ प्र॒जां ज॑नयद् व॒क्षणा॑भ्यो॒ बिभ्र॑ती दु॒ग्धमृ॑ष॒भस्य॒ रेतः॑ ||
14.2.15
प्रति॑ तिष्ठ वि॒राड॑सि॒ विष्णु॑रिवे॒ह स॑रस्वति |
सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत् ||
14.2.16
उद् व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत |
मादु॑ष्कृतौ॒ व्येनसाव॒घ्न्यावशु॑न॒मार॑ताम् ||
14.2.17
अघो॑रचक्षु॒रप॑तिघ्नी स्यो॒ना श॒ग्मा सु॒शेवा॑ सु॒यमा॑ गृ॒हेभ्यः॑ |
वी॒रसूर्दे॒वका॑मा॒ सं त्वयै॑धिषीमहि सुमन॒स्यमा॑ना ||
14.2.18
अदे॑वृ॒घ्न्यप॑तिघ्नी॒हैधि॑ शि॒वा प॒शुभ्यः॑ सु॒यमा॑ सु॒वर्चाः॑ |
प्र॒जाव॑ती वीर॒सूर्दे॒वका॑मा स्यो॒नेमम॒ग्निं गार्ह॑पत्यं सपर्य ||
14.2.19
उत् ति॑ष्ठे॒तः किमि॒च्छन्ती॒दमागा॑ अ॒हं त्वे॑डे अभि॒भूः स्वाद् गृ॒हात् |
शू॒न्यै॒षी नि॑रृते॒ याज॒गन्थोत्ति॑ष्ठाराते॒ प्र प॑त॒ मेह रं॑स्थाः ||
14.2.20
य॒दा गार्ह॑पत्य॒मस॑पर्यै॒त् पूर्व॑म॒ग्निं व॒धूरि॒यम् |
अधा॒ सर॑स्वत्यै नारि पि॒तृभ्य॑श्च॒ नम॑स्कुरु ||
14.2.21
शर्म॒ वर्मै॒तदा ह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ |
सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत् ||
14.2.22
यं बल्ब॑जं॒ न्यस्य॑थ॒ चर्म॑ चोपस्तृणी॒थन॑ |
तदा रो॑हतु सुप्र॒जा या क॒न्या वि॒न्दते॒ पति॑म् ||
14.2.23
उप॑ स्तृणीहि॒ बल्ब॑ज॒मधि॒ चर्म॑णि॒ रोहि॑ते |
तत्रो॑प॒विश्य॑ सुप्र॒जा इ॒मम॒ग्निं स॑पर्यतु ||
14.2.24
आ रो॑ह॒ चर्मोप॑ सीदा॒ग्निमे॒ष दे॒वो ह॑न्ति॒ रक्षां॑सि॒ सर्वा॑ |
इ॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै सु॑ज्यै॒ष्ठ्यो भ॑वत् पु॒त्रस्त॑ ए॒षः ||
14.2.25
वि ति॑ष्ठन्तां मा॒तुर॒स्या उ॒पस्था॒न्नाना॑रूपाः प॒शवो॒ जाय॑मानाः |
सु॒म॒ङ्ग॒ल्युप॑ सीदे॒मम॒ग्निं संप॑त्नी॒ प्रति॑ भूषे॒ह दे॒वान् ||
14.2.26
सु॒म॒ङ्ग॒ली प्र॒तर॑णी गृ॒हाणां॑ सु॒शेवा॒ पत्ये॒ श्वशु॑राय शं॒भूः |
स्यो॒ना श्व॒श्र्वै प्र गृ॒हान् वि॑शे॒मान् ||
14.2.27
स्यो॒ना भ॑व॒ श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑ |
स्यो॒नास्यै सर्व॑स्यै वि॒शे स्यो॒ना पु॒ष्टायै॑षां भव ||
14.2.28
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त |
सौभा॑ग्यम॒स्यै द॒त्त्वा दौर्भा॑ग्यैर्वि॒परे॑तन ||
14.2.29
या दु॒र्हार्दो॑ युव॒तयो॒ याश्चे॒ह ज॑रती॒रपि॑ |
वर्चो॒ न्व॑स्यै सं द॒त्ताथास्तं॑ वि॒परे॑तन ||
14.2.30
रु॒क्म॒प्रस्त॑रणं व॒ह्यं विश्वा॑ रू॒पाणि॒ बिभ्र॑तम् |
आरो॑हत् सू॒र्या सा॑वि॒त्री बृ॑ह॒ते सौभ॑गाय॒ कम् ||
14.2.31
आ रो॑ह॒ तल्पं सुमन॒स्यमा॑ने॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै |
इ॒न्द्रा॒णीव॑ सु॒बुधा॒ बुध्य॑माना॒ ज्योति॑रग्रा उ॒षसः॒ प्रति॑ जागरासि ||
14.2.32
दे॒वा अग्रे॒ न्यपद्यन्त॒ पत्नीः॒ सम॑स्पृशन्त त॒न्वऽस्त॒नूभिः॑ |
सू॒र्येव॑ नारि वि॒श्वरू॑पा महि॒त्वा प्र॒जाव॑ती॒ पत्या॒ सं भ॑वे॒ह ||
14.2.33
उत् ति॑ष्ठे॒तो वि॑श्वावसो॒ नम॑सेडामहे त्वा |
जा॒मिमि॑च्छ पितृ॒षदं॒ न्यक्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ||
14.2.34
अ॒प्स॒रसः॑ सध॒मादं॑ मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च |
तास्ते॑ ज॒नित्र॑म॒भि ताः परे॑हि॒ नम॑स्ते गन्धर्व॒र्तुना॑ कृणोमि ||
14.2.35
नमो॑ गन्ध॒र्वस्य॒ नम॑से॒ नमो॒ भामा॑य॒ चक्षु॑षे च कृण्मः |
विश्वा॑वसो॒ ब्रह्म॑णा ते॒ नमो॒ऽभि जा॒या अ॑प्स॒रसः॒ परे॑हि ||
14.2.36
रा॒या व॒यं सु॒मन॑सः स्या॒मोदि॒तो ग॑न्ध॒र्वमावी॑वृताम |
अग॑न्त्स दे॒वः प॑र॒मं स॒धस्थ॒मग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ||
14.2.37
सं पि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः |
मर्य॑ इव॒ योषा॒मधि॑रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम् ||
14.2.38
तां पूषं॑छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३वप॑न्ति |
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ति॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेपः॑ ||
14.2.39
आ रो॑हो॒रुमुप॑ धत्स्व॒ हस्तं॒ परि॑ ष्वजस्व जा॒यां सु॑मन॒स्यमा॑नः |
प्र॒जां कृ॑ण्वाथामि॒ह मोद॑मानौ दी॒र्घं वा॒मायुः॑ सवि॒ता कृ॑णोतु ||
14.2.40
आ वां॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिरहोरा॒त्राभ्यां॒ सम॑नक्त्वर्य॒मा |
अदु॑र्मङ्गली पतिलो॒कमा वि॑शे॒मं शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||
14.2.41
दे॒वैर्द॒त्तं मनु॑ना सा॒कमे॒तद् वाधू॑यं॒ वासो॑ व॒ध्वऽश्च॒ वस्त्र॑म् |
यो ब्र॒ह्मणे॑ चिकि॒तुषे॒ ददा॑ति॒ स इद् रक्षां॑सि॒ तल्पा॑नि हन्ति ||
14.2.42
यं मे॑ द॒त्तो ब्र॑ह्मभा॒गं व॑धू॒योर्वाधू॑यं॒ वासो॑ व॒ध्वऽश्च॒ वस्त्र॑म् |
यु॒वं ब्र॒ह्मणे॑ऽनुमन्य॑मानौ॒ बृह॑स्पते सा॒कमिन्द्र॑श्च द॒त्तम् ||
14.2.43
स्यो॒नाद्योने॒रधि॒ बध्य॑मानौ हसामु॒दौ मह॑सा॒ मोद॑मानौ |
सु॒गू सु॑पु॒त्रौ सु॑गृ॒हौ त॑राथो जी॒वावु॒षसो॑ विभा॒तीः ||
14.2.44
नवं॒ वसा॑नः सुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः |
आ॒ण्डात् प॑त॒त्रीवा॑मुक्षि॒ विश्व॑स्मा॒देन॑स॒स्परि॑ ||
14.2.45
शुम्भ॑नी॒ द्यावा॑पृथि॒वी अन्ति॑सुम्ने॒ महि॑व्रते |
आपः॑ स॒प्त सु॑स्रुवुर्दे॒वीस्ता नो॑ मुञ्च॒न्त्वंह॑सः ||
14.2.46
सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च |
ये भू॒तस्य॒ प्रचे॑तस॒स्तेभ्य॑ इ॒दम॑करं॒ नमः॑ ||
14.2.47
य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ |
संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒र्निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||
14.2.48
अपा॒स्मत् तम॑ उच्छतु॒ नीलं॑ पि॒शङ्ग॑मु॒त लोहि॑तं॒ यत् |
नि॒र्द॒ह॒नी या पृ॑षात॒क्य॑१स्मिन् तां स्था॒णावध्या स॑जामि ||
14.2.49
याव॑तीः कृ॒त्या उ॑प॒वास॑ने॒ याव॑न्तो॒ राज्ञो॒ वरु॑णस्य॒ पाशाः॑ |
व्यृद्धयो॒ या अस॑मृद्धयो॒ या अ॒स्मिन् ता स्था॒णावधि॑ सादयामि ||
14.2.50
या मे॑ प्रि॒यतमा त॒नूः सा मे॑ बिभाय॒ वास॑सः |
तस्याग्रे॒ त्वं व॑नस्पते नी॒विं कृ॑णुष्व॒ मा व॒यं रि॑षाम ||
14.2.51
ये अन्ता॒ याव॑तीः॒ सिचो॒ य ओत॑वो॒ ये च॒ तन्त॑वः |
वासो॒ यत् पत्नी॑भिरु॒तं तन्नः॑ स्यो॒नमुप॑ स्पृशात् ||
14.2.52
उ॒श॒तीः क॒न्यला॑ इ॒माः पि॑तृलो॒कात् पतिं॑ य॒तीः |
अव॑ दी॒क्षाम॑सृक्षत॒ स्वाहा॑ ||
14.2.53
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन् |
वर्चो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ||
14.2.54
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन् |
तेजो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ||
14.2.55
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन् |
भजो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि ||
14.2.56
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन् |
यशो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ||
14.2.57
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन् |
पयो॒ गोषु॒ प्रवि॑ष्टं॒ यत् तेने॒मां सं सृ॑जामसि ||
14.2.58
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन् |
रसो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि ||
14.2.59
यदी॒मे के॒शिनो॒ जना॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒न्तो॒३घम् |
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ||
14.2.60
यदी॒यं दु॑हि॒ता तव॑ विके॒श्यरु॑दद् गृ॒हे रोदे॑न कृण्व॒त्य॑१घम् |
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ||
14.2.61
यज्जा॒मयो॒ यद् यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम् |
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च प्र मु॑ञ्चताम् ||
14.2.62
यत् ते॑ प्र॒जायां॑ प॒शुषु॒ यद् वा॑ गृ॒हेषु॒ निष्ठि॑तमघ॒कृद्भि॑र॒घं कृ॒तम् |
अ॒ग्निष्ट्वा॒ तस्मा॒देनसः सवि॒ता च॒ प्र मु॑ञ्चताम् ||
14.2.63
इ॒यं नार्युप॑ ब्रूते॒ पूल्या॑न्यावपन्ति॒का |
दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ||
14.2.64
इ॒हेमावि॑न्द्र॒ सं नु॑द चक्रवा॒केव॒ दंप॑ती |
प्र॒जयै॑नौ स्वस्त॒कौ विश्व॒मायु॒र्व्यऽश्नुताम् ||
14.2.65
यदा॑स॒न्द्यामु॑प॒धाने॒ यद् वो॑प॒वास॑ने कृ॒तम् |
वि॒वा॒हे कृ॒त्यां यां च॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ||
14.2.66
यद् दु॑ष्कृ॒तं यच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत् |
तत् सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तं व॒यम् ||
14.2.67
सं॒भ॒ले मलं॑ सादयित्वा क॑म्बले दु॑रितं व॒यम् |
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ||
14.2.68
कृ॒त्रिमः॒ कण्ट॑कः श॒तद॒न् य ए॒षः |
अपा॒स्याः केश्यं॒ मल॒मप॑ शीर्ष॒ण्यं लिखात् ||
14.2.69
अङ्गा॑द॒ङ्गाद् व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि |
तन्मा प्राप॑त् पृथि॒वीं मोत दे॒वान् दिवं॒ मा प्राप॑दु॒र्व॑१न्तरि॑क्षम् |
अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्ने य॒मं मा प्राप॑त् पि॒तॄंश्च॒ सर्वा॑न् ||
14.2.70
सं त्वा॑ नह्यामि॒ पय॑सा पृथि॒व्याः सं त्वा॑ नह्यामि॒ पय॒सौष॑धीनाम् |
सं त्वा॑ नह्यामि प्र॒जया॒ धने॑न॒ सा संन॑द्धा सनुहि॒ वाज॒मेमम् ||
14.2.71
अमो॒ऽहम॑स्मि॒ सा त्वं सामा॒हम॒स्म्यृक् त्वं द्यौर॒हं पृ॑थि॒वी त्वम् |
तावि॒ह सं भ॑वाव प्र॒जामा ज॑नयावहै ||
14.2.72
ज॒नि॒यन्ति॑ ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः |
अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये ||
14.2.73
ये पि॒तरो॑ वधूद॒र्शा इमं व॑ह॒तुमाग॑मन् |
ते अ॒स्यै व॒ध्वै संप॑त्न्यै प्र॒जाव॒च्छर्म॑ यच्छन्तु ||
14.2.74
येदं पूर्वाग॑न् रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा |
तां व॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ||
14.2.75
प्र बु॑ध्यस्व सु॒बुधा॒ बुध्य॑माना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय |
गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ||