14.1.1
१-६४ सूर्या सावित्री |
आत्मा; १-५ सोमः, ६ स्वविवाहः, २३ सोमार्कौ, २४ चन्द्रमाः, २५ नृणां विवाहमन्त्राशिषः;
२५,२७ वधूवासःसंस्पर्शमोचनम |
अनुष्टुप्, १४ विराट् प्रस्तारपङ्क्तिः; १५ आस्तारपङ्क्तिः;
१९-२०, २३-२४, ३१-३३,३७, ३९-४०, ४५, ४७, ४९-५०, ५३, ५६-५७, ५८-५९,६१ त्रिष्टुप् (२३,३१,४५ बृहतीगर्भा),
२१, ४६, ५४,६४ जगती (५४, ६४ भुरिक् त्रिष्टुप्) ; २९, ५५ पुरस्ताद्बृहती; ३४ प्रस्तारपङ्क्तिः;
३८ पुरोबृहती त्रिपदा परोष्णिक्; (४८ पथ्यापङ्क्तिः) ६० पराऽनुष्टुप् |
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः |
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ||
14.1.2
सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही |
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ||
14.1.3
सोमं॑ मन्यते पपि॒वान् यत् सं॑पिं॒षन्त्योष॑धिम् |
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ पार्थि॑वः ||
14.1.4
यत् त्वा॑ सोम प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ |
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ||
14.1.5
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः |
ग्राव्णा॒मिच्छृ॒ण्वन् ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ||
14.1.6
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् |
द्यौर्भूमिः॒ कोश॑ आसी॒द् यदया॑त् सू॒र्या पति॑म् ||
14.1.7
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी |
सू॒र्याया॑ भ॒द्रमिद् वासो॒ गाथ॑यैति॒ परि॑ष्कृता ||
14.1.8
स्तोमा॑ आसन् प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः |
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत् पुरोग॒वः ||
14.1.9
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा |
सू॒र्यां यत् पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ||
14.1.10
मनो॑ अस्या॒ अन॑ आसी॒द् द्यौरा॑सीदु॒त च्छ॒दिः |
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त् सू॒र्या पति॑म् ||
14.1.11
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावै॑ताम् |
श्रोत्रे॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराच॒रः ||
14.1.12
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः |
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत् प्रय॒ती पति॑म् ||
14.1.13
सू॒र्याया॑ वह॒तुः प्रागा॑त् सवि॒ता यम॒वासृ॑जत् |
म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒ व्युऽह्यते ||
14.1.14
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ |
क्वैकं॑ च॒क्रं वा॑मासी॒त् क्वऽदे॒ष्ट्राय॑ तस्थथुः ||
14.1.15
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ |
विश्वे॑ दे॒वा अनु॒ तद् वा॑मजानन् पु॒त्रः पि॒तर॑मवृणीत पू॒षा ||
14.1.16
द्वे ते॑ च॒क्रे सूर्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः |
अथैकं॑ च॒क्रं यद् गुहा॒ तद॑द्धा॒तय॒ इद् वि॒दुः ||
14.1.17
अ॒र्य॒मणं॑ यजामहे सुब॒न्धुं प॑ति॒वेद॑नम् |
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना॒त् प्रेतो मु॑ञ्चामि॒ नामुतः॑ ||
14.1.18
प्रेतो मु॑ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् |
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ||
14.1.19
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवाः॑ |
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ अस्तु स॒हसं॑भलायै ||
14.1.20
भग॑स्त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न |
गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ||
14.1.21
इ॒ह प्रि॒यं प्र॒जायै॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि |
ए॒ना पत्या॑ त॒न्वं॑१ सं स्पृ॑श॒स्वाथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ||
14.1.22
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्यऽश्नुतम् |
क्रीड॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ ||
14.1.23
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम् |
विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒तूंर॒न्यो वि॒दध॑ज्जायसे॒ नवः॑ ||
14.1.24
नवो॑नवो भवसि॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म् |
भा॒गं दे॒वेभ्यो॒ वि द॑धास्या॒यन् प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑ ||
14.1.25
परा॑ देहि शामु॒ल्यं ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ |
कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒या वि॑शते॒ पति॑म् ||
14.1.26
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्यऽज्यते |
एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ||
14.1.27
अ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या |
पति॒र्यद् व॒ध्वो॒३वास॑सः॒ स्वमङ्ग॑मभ्यूर्णु॒ते ||
14.1.28
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् |
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शु॑म्भति ||
14.1.29
तृ॒ष्टमे॒तत् कटु॑कमपा॒ष्ठव॑द् वि॒षव॒न्नैतदत्त॑वे |
सू॒र्यां यो ब्र॒ह्मा वेद॒ स इद् वाधू॑यमर्हति ||
14.1.30
स इत् तत् स्यो॒नं ह॑रति ब्र॒ह्मा वासः॑ सुम॒ङ्गल॑म् |
प्राय॑श्चित्तिं॒ यो अ॒ध्येति॒ येन॑ जा॒या न रिष्य॑ति ||
14.1.31
यु॒वं भगं॒ सं भ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु |
ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒ चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम् ||
14.1.32
इ॒हेद॑साथ॒ न प॒रो ग॑माथे॒मं गा॑वः प्र॒जया॑ वर्धयाथ |
शुभं॑ यतीरु॒स्रियाः॒ सोम॑वर्चसो॒ विश्वे॑ दे॒वाः क्रन्नि॒ह वो॒ मनां॑सि ||
14.1.33
इ॒मं गा॑वः प्र॒जया॒ सं वि॑शाथा॒यं दे॒वानां॒ न मि॑नाति भा॒गम् |
अ॒स्मै वः॑ पू॒षा म॒रुत॑श्च॒ सर्वे॑ अ॒स्मै वो॑ धा॒ता स॑वि॒ता सु॑वाति ||
14.1.34
अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्थ॑नो॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम् |
सं भगे॑न॒ सम॑र्य॒म्णा सं धा॒ता सृ॑जतु॒ वर्च॑सा ||
14.1.35
यच्च॒ वर्चो॑ अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम् |
यद् गोष्व॒श्विना॒ वर्च॒स्तेने॒मां वर्च॑सावतम् ||
14.1.36
ये न॑ महान॒घ्न्या ज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑ |
येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मां वर्च॑सावतम् ||
14.1.37
यो अ॑नि॒ध्मो दी॒दय॑द॒प्स्व॑१न्तर्यं विप्रा॑स॒ ईड॑ते अध्व॒रेषु॑ |
अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्याऽवान् ||
14.1.38
इ॒दम॒हं रुश॑न्तं ग्रा॒भं त॑नू॒दूषि॒मपो॑हामि |
यो भ॒द्रो रो॑च॒नस्तमुद॑चामि ||
14.1.39
आस्यै॑ ब्राह्म॒णाः स्नप॑नीर्हर॒न्त्ववी॑रघ्नी॒रुद॑ज॒न्त्वापः॑ |
अ॒र्य॒म्णो अ॒ग्निं पर्ये॑तु पूष॒न् प्रती॑क्षन्ते॒ श्वशु॑रो दे॒वर॑श्च ||
14.1.40
शं ते॒ हिर॑ण्यं॒ शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑ |
शं त॒ आपः॑ श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं॑१ सं स्पृ॑शस्व ||
14.1.41
खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो |
अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्वाकृ॑णोः॒ सूर्य॑त्वचम् ||
14.1.42
आ॒शासा॑ना सौमन॒सं प्र॒जां सौभा॑ग्यं र॒यिम् |
पत्यु॒रनु॑व्रता भू॒त्वा सं न॑ह्यस्वा॒मृता॑य॒ कम् ||
14.1.43
यथा॒ सिन्धु॑र्न॒दीनां॒ साम्रा॑ज्यं सुषु॒वे वृषा॑ |
ए॒वा त्वं स॒म्राज्ञ्ये॑धि॒ पत्यु॒रस्तं॑ प॒रेत्य॑ ||
14.1.44
स॒म्राज्ञ्ये॑धि॒ श्वशु॑रेषु स॒म्राज्ञ्यु॒त दे॒वृषु॑ |
नना॑न्दुः स॒म्राज्ञ्ये॑धि स॒म्राज्ञ्यु॒त श्व॒श्र्वाः ||
14.1.45
या अकृ॑न्त॒न्नव॑य॒न् याश्च॑ तत्नि॒रे या दे॒वीरन्तां॑ अ॒भितोऽद॑दन्त |
तास्त्वा॑ ज॒रसे॒ सं व्य॑य॒न्त्वायु॑ष्मती॒दं परि॑ धत्स्व॒ वासः॑ ||
14.1.46
जी॒वं रु॑दन्ति॒ वि न॑यन्त्यध्व॒रं दी॒र्घामनु॒ प्रसि॑तिं दीध्यु॒र्नरः॑ |
वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मीरि॒रे मयः॒ पति॑भ्यो ज॒नये॑ परि॒ष्वजे॑ ||
14.1.47
स्यो॒नं ध्रु॒वं प्र॒जायै॑ धारयामि॒ तेऽश्मा॑नं दे॒व्याः पृ॑थि॒व्या उ॒पस्थे॑ |
तमा ति॑ष्ठानु॒माद्या॑ सु॒वर्चा॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ||
14.1.48
ये ना॒ग्निर॒स्या भूम्या॒ हस्तं॑ ज॒ग्राह॒ दक्षि॑णम् |
तेन॑ गृह्णामि ते॒ हस्तं॒ मा व्य॑थिष्ठा॒ मया॑ स॒ह प्र॒जया॑ च॒ धने॑न च ||
14.1.49
दे॒वस्ते॑ सवि॒ता हस्तं॑ गृह्णातु॒ सोमो॒ राजा॑ सुप्र॒जसं॑ कृणोतु |
अ॒ग्निः सु॒भगां॑ ज॒तवे॑दाः॒ पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिं कृणोतु ||
14.1.50
गृ॒ह्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ |
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ||
14.1.51
भग॑स्ते॒ हस्त॑मग्रहीत् सवि॒ता हस्त॑मग्रहीत् |
पत्नी॒ त्वम॑सि॒ धर्म॑णा॒हं गृ॒हप॑ति॒स्तव॑ ||
14.1.52
ममे॒यम॑स्तु॒ पोष्या॒ मह्यं॑ त्वादा॒द् बृह॒स्पतिः॑ |
मया॒ पत्या॑ प्रजावति॒ सं जी॑व श॒रदः॑ श॒तम् ||
14.1.53
त्वष्टा॒ वासो॒ व्यदधाच्छु॒भे कं बृह॒स्पतेः॑ प्र॒शिषा॑ कवी॒नाम् |
तेने॒मां नारीं॑ सवि॒ता भग॑श्च सू॒र्यामि॑व॒ परि॑ धत्तां प्र॒जया॑ ||
14.1.54
इ॒न्द्रा॒ग्नी द्यावा॑पृथि॒वी मा॑त॒रिश्वा॑ मि॒त्रावरु॑णा॒ भगो॑ अ॒श्विनो॒भा |
बृह॒स्पति॑र्म॒रुतो॒ ब्रह्म॒ सोम॑ इ॒मां नारीं॑ प्र॒जया॑ वर्धयन्तु ||
14.1.55
बृह॒स्पतिः॑ प्रथ॒मः सू॒र्यायाः॑ शी॒र्षे केशां॑ अकल्पयत् |
तेने॒माम॑श्विना॒ नारीं॒ पत्ये॒ सं शो॑भयामसि ||
14.1.56
इ॒दं तद् रू॒पं यदव॑स्त॒ योषा॑ जा॒यां जि॑ज्ञासे॒ मन॑सा॒ चर॑न्तीम् |
तामन्व॑र्तिष्ये॒ सखि॑भि॒र्नव॑ग्वैः॒ क इ॒मान् वि॒द्वान् वि च॑चर्त॒ पाशा॑न् ||
14.1.57
अ॒हं वि ष्या॑मि॒ मयि॑ रू॒पम॑स्या॒ वेद॒दित् पश्य॒न् मन॑सः कु॒लाय॑म् |
न स्तेय॑मद्मि॒ मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न् ||
14.1.58
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवाः॑ |
उ॒रुं लो॒कं सु॒गमत्र॒ पन्थां॑ कृ॒णोमि॒ तुभ्यं॑ स॒हप॑त्न्यै वधु ||
14.1.59
उद्य॑च्छध्व॒मप॒ रक्षो॑ हनाथे॒मं नारीं॑ सुकृ॒ते द॑धात |
धा॒ता वि॑प॒श्चित् पति॑म॒स्यै वि॑वेद॒ भगो॒ राजा॑ पु॒र ए॑तु प्रजा॒नन् ||
14.1.60
भग॑स्ततक्ष च॒तुरः॒ पादा॒न् भग॑स्ततक्ष च॒त्वार्युष्प॑लानि |
त्वष्टा॑ पिपेश मध्य॒तोऽनु॒ वर्ध्रा॒न्त्सा नो॑ अस्तु सुमङ्ग॒ली ||
14.1.61
सु॒किं॒शु॒कं व॑ह॒तुं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् |
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पति॑भ्यो वह॒तुं कृ॑णु॒ त्वम् ||
14.1.62
अभ्रा॑तृघ्नीं वरु॒णाप॑शुघ्नीं बृहस्पते |
इन्द्राप॑तिघ्नीं पु॒त्रिणी॒मास्मभ्यं॑ सवितर्वह ||
14.1.63
मा हिं॑सिष्टं कुमा॒र्यं॑१ स्थूणे॑ दे॒वकृ॑ते प॒थि |
शाला॑या दे॒व्या द्वारं॑ स्यो॒नं कृ॑ण्मो वधूप॒थम् ||
14.1.64
ब्रह्माप॑रं यु॒ज्यतां॒ ब्रह्म॒ पूर्वं॒ ब्रह्मा॑न्त॒तो म॑ध्य॒तो ब्रह्म॑ स॒र्वतः॑ |
अ॒ना॒व्या॒धां दे॑वपु॒रां प्र॒पद्य॑ शि॒वा स्यो॒ना प॑तिलो॒के वि रा॑ज ||