Atharvaveda 10.9

शतौदना गौः।

10.9.1

१-२७ अथर्वा | शतौदना | अनुष्टुप्, १ त्रिष्टुप्, १२ पथ्यापङ्क्तिः, २५ द्व्युष्णिग्गर्भाऽनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुबुष्णिग्गर्भा जगती, २७ पञ्चपदातिजागतानुष्टब्गर्भा शक्वरी | अ॒घा॒य॒तामपि॑ नह्या॒ मुखा॑नि स॒पत्ने॑षु॒ वज्र॑मर्पयै॒तम् | इन्द्रे॑ण द॒त्ता प्र॑थ॒मा श॒तौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गा॒तुः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

10.9.1

१-२७ अथर्वा | शतौदना | अनुष्टुप्, १ त्रिष्टुप्, १२ पथ्यापङ्क्तिः, २५ द्व्युष्णिग्गर्भाऽनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुबुष्णिग्गर्भा जगती, २७ पञ्चपदातिजागतानुष्टब्गर्भा शक्वरी | अ॒घा॒य॒तामपि॑ नह्या॒ मुखा॑नि स॒पत्ने॑षु॒ वज्र॑मर्पयै॒तम् | इन्द्रे॑ण द॒त्ता प्र॑थ॒मा श॒तौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गा॒तुः ||

10.9.2

वेदि॑ष्टे॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते | ए॒षा त्वा॑ रश॒नाग्र॑भी॒द् ग्रावा॑ त्वै॒षोऽधि॑ नृत्यतु ||

10.9.3

बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जी॒ह्वा सं मा॑र्ष्ट्वघ्न्ये | शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ||

10.9.4

यः श॒तौद॑नां॒ पच॑ति काम॒प्रेण॒ स क॑ल्पते | प्री॒ता ह्यऽस्य॒र्त्विजः॒ सर्वे॒ यन्ति॑ यथाय॒थम् ||

10.9.5

स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः | अ॒पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ||

10.9.6

स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः | हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ||

10.9.7

ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑ | ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ||

10.9.8

वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा | आ॒दि॒त्याः प॒श्चाद् गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ||

10.9.9

दे॒वाः पि॒तरो॑ मनु॒ष्याऽ गन्धर्वाप्स॒रस॑श्च॒ ये | ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ साति॑रा॒त्रमति॑ द्रव ||

10.9.10

अ॒न्तरि॑क्षं॒ दिवं॒ भूमि॑मादि॒त्यान् म॒रुतो॒ दिशः॑ | लो॒कान्त्स सर्वा॑नाप्नोति॒ यो ददा॑ति श॒तौद॑नाम् ||

10.9.11

घृ॒तं प्रो॒क्षन्ती॑ सु॒भगा॑ दे॒वी दे॒वान् ग॑मिष्यति | प॒क्तार॑मघ्न्ये॒ मा हिं॑सी॒र्दिवं॒ प्रेहि॑ शतौदने ||

10.9.12

ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑ | तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.13

यत् ते॒ शिरो॒ यत् ते॒ मुखं॒ यौ कर्णौ॒ ये च॑ ते॒ हनू॑ | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.14

यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ तेऽक्षि॑णी | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.15

यत् ते क्लो॒मा यद्धृद॑यं पुरी॒तत् स॒हक॑ण्ठिका | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.16

यत् ते॒ यकृ॒द् ये मत॑स्ने यदा॒न्त्रं याश्च॑ ते॒ गुदाः॑ | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.17

यस्ते॑ प्ला॒शिर्यो व॑नि॒ष्ठुर्यौ कु॒क्षी यच्च॒ चर्म॑ ते | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.18

यत् ते॑ म॒ज्जा यदस्थि॒ यन्मां॒सं यच्च॒ लोहि॑तम् | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.19

यौ ते॑ बा॒हू ये दो॒षणी॒ यावंसौ॒ या च॑ ते क॒कुत् | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.20

यास्ते॑ ग्री॒वा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पर्श॑वः | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.21

यौ त॑ उ॒रू अ॑ष्ठी॒वन्तौ॒ ये श्रोणी॒ या च॑ ते भ॒सत् | आ॑मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.22

यत् ते॒ पुच्छं॒ ये ते॒ बाला॒ यदूधो॒ ये च॑ ते॒ स्तनाः॑ | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.23

यास्ते॒ जङ्घाः॒ याः कुष्ठि॑का ऋ॒च्छरा॒ ये च॑ ते श॒फाः | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.24

यत् ते॒ चर्म॑ शतौदने॒ यानि॒ लोमा॑न्यघ्न्ये | आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ||

10.9.25

क्रो॒डौ ते॑ स्तां पुरो॒डाशा॒वाज्ये॑ना॒भिघा॑रितौ | तौ प॒क्षौ दे॑वि कृ॒त्वा सा प॒क्तारं दिवं॑ वह ||

10.9.26

उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑ | यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ||

10.9.27

अ॒पो दे॒वी र्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि | यत् का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ||