10.10.1
१-३४ कश्यपः | वशा | अनुष्टुप्, १ ककुम्मती, ५ पञ्चपदा॰ स्कन्धोग्रीवी बृहती, ६, ८, १० विराट्, २३ बृहती, २४ उपरिष्टाद् बृहती, २६ आस्तारपङ्क्तिः, २७ शंकुमती, २९ त्रिपदा विराड् गायत्री, ३१ उष्णिग्गर्भा, ३२ विराट् पथ्याबृहती | नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑ | बाले॑भ्यः श॒फेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑ ||