Atharvaveda 1.30

दीर्घायुःप्राप्तिः।

1.30.1

१-४ अथर्वा (आयुष्कामः) | विश्वेदेवाः (१ वसवः, आदित्याः, १-४ देवाः) | त्रिष्टुप्, ३ शाक्वरगर्भा विराड् जगती | विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॑त्या जागृ॒त यू॒यम॒स्मिन् | मेमं सना॑भिरु॒त वा॒न्यना॑भि॒र्मेमं प्राप॒त् पौरु॑षेयो व॒धो यः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

1.30.1

१-४ अथर्वा (आयुष्कामः) | विश्वेदेवाः (१ वसवः, आदित्याः, १-४ देवाः) | त्रिष्टुप्, ३ शाक्वरगर्भा विराड् जगती | विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॑त्या जागृ॒त यू॒यम॒स्मिन् | मेमं सना॑भिरु॒त वा॒न्यना॑भि॒र्मेमं प्राप॒त् पौरु॑षेयो व॒धो यः ||

1.30.2

ये वो॑ देवाः पि॒तरो॒ ये च॑ पु॒त्राः सचे॑तसो मे शृणुते॒दमु॒क्तम् | सर्वे॑भ्यो वः॒ प॑रि ददाम्ये॒तं स्व॒स्त्येऽनं ज॒रसे॑ वहाथ ||

1.30.3

ये दे॑वा दि॒वि ष्ठ ये पृ॑थि॒व्यां ये अ॒न्तरि॑क्ष॒ ओष॑धीषु प॒शुष्व॒प्स्व॑१न्तः | ते कृ॑णुत ज॒रस॒मायु॑र॒स्मै श॒तम॒न्यान् परि॑ वृणक्तु मृ॒त्यून् ||

1.30.4

येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः | येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान् वो अ॒स्मै स॑त्र॒सदः॑ कृणोमि ||