Atharvaveda 1.29

राष्ट्राभिवर्धनम्, सपत्नक्षयणं च।

1.29.1

१-६ वसिष्ठः | ब्रह्मणस्पतिः, अभीवर्तमणिः | अनुष्टुप् | अ॒भी॒व॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे॑ | तेना॒स्मान् ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्धय ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

1.29.1

१-६ वसिष्ठः | ब्रह्मणस्पतिः, अभीवर्तमणिः | अनुष्टुप् | अ॒भी॒व॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे॑ | तेना॒स्मान् ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्धय ||

1.29.2

अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः | अभि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ||

1.29.3

अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत् | अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ||

1.29.4

अ॒भी॒व॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः | रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ||

1.29.5

उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑ | यथा॒हं श॑त्रु॒होऽसा॑न्यसपत्नः सपत्नहा॑ ||

1.29.6

स॒प॒त्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः | यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ||