1.191.16
१६ अग्स्त्यो मैत्रावरुणिः | (विषघ्नोपनिषद्) | अनुष्टुप्, १०-१२ महा पंक्तिः, १३ महबृहती | कङ्क॑तो॒ न कङ्क॒तो ऽथो॑ सती॒नक॑ङ्कतः | द्वाविति॒ प्लुषी॒ इति॒ न्य१दृष्टा॑ अलिप्सत ॥१ अ॒दृष्टा॑न् हन्त्याय॒त्यथो॑ हन्ति पराय॒ती | अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥२ श॒रास॒: कुश॑रासो द॒र्भास॑: सै॒र्या उ॒त | मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥३ नि गावो॑ गो॒ष्ठे अ॑सद॒न् नि मृ॒गासो॑ अविक्षत | नि के॒तवो॒ जना॑नां॒ न्य१दृष्टा॑ अलिप्सत ॥४ ए॒त उ॒ त्ये प्रत्य॑दृश्रन् प्रदो॒षं तस्क॑रा इव | अदृ॑ष्टा॒ विश्व॑दृष्टा॒: प्रति॑बुद्धा अभूतन ॥५ द्यौर्व॑: पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑ति॒: स्वसा॑ | अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥६ ये अंस्या॒ ये अङ्ग्या॑: सू॒चीका॒ ये प्र॑कङ्क॒ताः | अदृ॑ष्टा॒: किं च॒नेह व॒: सर्वे॑ सा॒कं नि ज॑स्यत ॥७ उत् पु॒रस्ता॒त् सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा | अ॒दृष्टा॒न् त्सर्वा॑ञ्ज॒म्भय॒न् त्सर्वा॑श्च यातुधा॒न्य॑: ॥८ उद॑पप्तद॒सौ सूर्य॑: पु॒रु विश्वा॑नि॒ जूर्व॑न् | आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥९ सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे | सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१० इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् | सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥११ त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् | ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१२ न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् | सर्वा॑सामग्रभं॒ नामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१३ त्रिः स॒प्त म॑यू॒र्य॑: स॒प्त स्वसा॑रो अ॒ग्रुव॑: | तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥१४ इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना | ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वत॑: ॥१५ कु॒षु॒म्भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः | वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ||
VENOMOUS, slightly venomous, or venomous aquatic worm,— Both creatures, stinging, unobserved, with poison have infected me.