1.167.1
११ अगस्त्यो मैत्रावरुणिः | १ इन्द्रः, २-११मरुतः | त्रिष्टुप्, (१०पुरस्ताज्ज्योतिः | ) स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः | स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑: ॥१ आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद् दि॑वैः सुमा॒याः | अध॒ यदे॑षां नि॒युत॑: पर॒माः स॑मु॒द्रस्य॑ चिद् ध॒नय॑न्त पा॒रे ॥२ मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः | गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥३ परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः | न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥४ जोष॒द् यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑: | आ सू॒र्येव॑ विध॒तो रथं॑ गात् त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥५ आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् | अ॒र्को यद् वो॑ मरुतो ह॒विष्मा॒न् गाय॑द् गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥६ प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ | सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥७ पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् | उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥८ न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः | ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसो ऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥९ व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये | व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून् तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥१० ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः | एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥११ ||
A THOUSAND are thy helps for us, O Indra: a thousand, Lord of Bays, thy choice refreshments. Wealth of a thousand sorts hast thou to cheer us: may precious goods come nigh to us in thousands.