Atharvaveda 9.6

अतिथि-सत्कारः।

9.6.1

१-६२ (षट् पर्यायाः) ब्रह्माः | अतिथिः, विद्या | (१) १-१७, नागीनाम त्रिपदा गायत्री, २ त्रिपदाऽर्षी गायत्री, ३,७ साम्नी त्रिष्टुप्, ४,९ आर्च्यनुष्टुप्, ५ आसुरी गायत्री, ६ त्रिपदा साम्नी जगती, ८ याजुषी त्रिष्टुप्, १० साम्नी भुरिग्बृहती, ११,१४-१६ साम्न्यनुष्टुप्, १२ विराड् गायत्री, १३ साम्नि निचृत्पङ्क्तिः, १७ त्रिपदा विराड् भुरिग्गायत्री | यो वि॒द्याद् ब्रह्म॑ प्र॒त्यक्षं॒ परूं॑षि॒ यस्य॑ संभा॒रा ऋचो॒ यस्या॑नू॒क्यऽम् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

9.6.1

१-६२ (षट् पर्यायाः) ब्रह्माः | अतिथिः, विद्या | (१) १-१७, नागीनाम त्रिपदा गायत्री, २ त्रिपदाऽर्षी गायत्री, ३,७ साम्नी त्रिष्टुप्, ४,९ आर्च्यनुष्टुप्, ५ आसुरी गायत्री, ६ त्रिपदा साम्नी जगती, ८ याजुषी त्रिष्टुप्, १० साम्नी भुरिग्बृहती, ११,१४-१६ साम्न्यनुष्टुप्, १२ विराड् गायत्री, १३ साम्नि निचृत्पङ्क्तिः, १७ त्रिपदा विराड् भुरिग्गायत्री | यो वि॒द्याद् ब्रह्म॑ प्र॒त्यक्षं॒ परूं॑षि॒ यस्य॑ संभा॒रा ऋचो॒ यस्या॑नू॒क्यऽम् ||

9.6.2

सामा॑नि॒ यस्य॒ लोमा॑नि॒ यजु॒र्हृद॑यमु॒च्यते॑ परि॒स्तर॑णा॒मिद्ध॒विः ||

9.6.3

यद् वा अति॑थिपति॒रति॑थीन् प्रति॒पश्य॑ति देव॒यज॑नं॒ प्रेक्ष॑ते ||

9.6.4

यद॑भि॒वद॑ति दी॒क्षामुपै॑ति॒ यदु॑द॒कं याच॑त्य॒पः प्र ण॑यति ||

9.6.5

या ए॒व य॒ज्ञ आपः॑ प्रणी॒यन्ते॒ ता ए॒व ताः ||

9.6.6

यत् तर्प॑णमा॒हर॑न्ति॒ य ए॒वाग्नी॑षो॒मीयः॑ प॒शुर्ब॒ध्यते॒ स ए॒व सः ||

9.6.7

यदा॑वस॒थान् क॒ल्पय॑न्ति सदोहविर्धा॒नान्ये॒व तत् क॑ल्पयन्ति ||

9.6.8

यदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत् ||

9.6.9

यदु॑परिशय॒नमा॒हर॑न्ति स्व॒र्गमे॒व तेन॑ लो॒कमव॑ रुन्द्धे ||

9.6.10

यत् क॑शिपूपबर्ह॒णमा॒हर॑न्ति परि॒धय॑ ए॒व ते ||

9.6.11

यदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत् ||

9.6.12

यत् पु॒रा प॑रि॒वेषात् स्वा॒दमा॒हर॑न्ति पुरो॒डाशा॑वे॒व तौ ||

9.6.13

यद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ||

9.6.14

ये व्री॒हयो॒ यवा॑ निरु॒प्यन्तें॒ऽशव॑ ए॒व ते ||

9.6.15

यान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते ||

9.6.16

शूर्पं॑ प॒वित्रं॒ तुषा॑ ऋजी॒षाभि॒षव॑णी॒रापः॑ ||

9.6.17

स्रुग् दर्वि॒र्नेक्ष॑णमा॒यव॑नं द्रोणकल॒शाः कु॒म्भ्योऽ वाय॒व्या॒ऽनि॒ पात्रा॑णी॒यमे॒व कृ॑ष्णाजि॒नम् ||

9.6.25

(२) १८-३० (१-१३) १ विराट् पुरस्ताद्बृहती, २, १२ साम्नी त्रिष्टुप्, ३ आसुरी अनुषटुप्, ४ साम्नी उष्णिक्, ५,११ साम्नी बृहती (११ भुरिक्) ६ आर्च्यनुष्टुप्, ७ त्रिपदा स्वराडनुष्टुप्, ८ आसुरी गायत्री, ९ साम्नी अनुष्टुप्, १० त्रिपदाऽर्ची त्रिष्टुप्, १३ त्रिपदाऽर्ची पङ्क्तिः (७ पञ्चपदा विराट् पुरस्ताद्बृहती, ८ साम्न्यनुष्टुप् वा) य॒ज॒मा॒न॒ब्रा॒ह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याऽणि॒ प्रेक्ष॑त इ॒दं भू॑या३ इ॒दा३मिति॑ | १ | १८॥ यदाह॒ भूय॒ उद्ध॒रेति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते | २ | १९॥ उप॑ हरति ह॒वींष्या सा॑दयति | ३ | २०॥ तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन् जु॑होति | ४ | २१॥ स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ | ५ | २२॥ ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः | ६ | २३॥ स य ए॒वं वि॒द्वान् न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य | ७ | २४॥ सर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ | ८ ||